नैकभावा यथा वेश्या वृथा पश्यति कामुकम् । तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम्
वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् । पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता
सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु । वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै
सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः । तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम
विवाहविधिना देहि कन्यादानं शुभे दिने । सुदर्शनाय नृपते यदीच्छसि शुभं मम
कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् व्यास उवाच सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा । चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम्
सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः । उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः
यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् । तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः
न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् । येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे
सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः । किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे
इति चिन्तापरो राजा जगाम नृपसन्निधौ । प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः
किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता । बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च
मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् । पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः
ददामि बहुरत्नानि वस्त्राणि च गजान् रथान् । गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत
न वशे मे सुता बाला म्रियते यदि खेदिता । तदा मे स्यान्महद्दुःखं तेन चिन्तातुरोऽस्म्यहम्
भवन्तः करुणावन्तो महाभाग्या महौजसः । किं मे तया दुहित्रा तु मन्दया दुर्विनीतया
अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा । सुता सुतेव मन्तव्या भवद्भिः सर्वथा मम
व्यास उवाच श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः । युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः
राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् । स्वयंवरः कथं मोहाद्रचितः संशये सति
मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे । कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति
अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै । दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम्
विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता । आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता
एतान्विहाय नृपतीन्बलवाहनसंयुतान् । वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम्
अहं त्वां हन्मि पापिष्ठं तथा पश्चात्सुदर्शनम् । दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः
मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति । सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः
भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया । नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः
तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह । दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल
सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् । उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता
सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् । एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि
( कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् । दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति) ॥ परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्वतीम् । कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा