भगवत्याः प्रमाणं मे नान्यं जानामि संयतः । तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा
युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः । यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा
व्यास उवाच इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः । सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह
अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल । सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे
दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च । उपविष्टाश्च राजानः शुभालङ्करणैर्युताः
दिव्यवेषधराः कामं विमानेष्वमरा इव । दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया
इति चिन्तापराः सर्वे कदा साप्यागमिष्यति । भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति
यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह । विवादो वै नृपाणां च भविता नात्र संशयः
इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः । वादित्रघोषः सुमहानुत्थितो नृपमण्डपे
अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् । मधूकमालासंयुक्तां क्षौमवासोविभूषिताम्
विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् । चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः
उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् । व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम्
गुणवान् रूपसम्पन्नः कुलीनश्च नृपोत्तमः । तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे
देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च । संविष्टाः पश्य तन्वङ्गि वरयस्व यथारुचि
व्यास उवाच तं तथा भाषमाणं वै पितरं मितभाषिणी । उवाच वचनं बाला ललितं धर्मसंयुतम्
शशिकलोवाच नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल । कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः
धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल । एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः
सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ । सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति
स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे । सामान्या सा तदा जाता कुलटेवापरा वधूः
वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् । गुणागुणपरिज्ञानं करोति निजमानसे
नैकभावा यथा वेश्या वृथा पश्यति कामुकम् । तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम्
वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् । पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता
सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु । वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै
सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः । तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम
विवाहविधिना देहि कन्यादानं शुभे दिने । सुदर्शनाय नृपते यदीच्छसि शुभं मम
कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् व्यास उवाच सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा । चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम्
सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः । उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः
यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् । तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः
न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् । येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे
सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः । किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे