भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया । युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः
गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् । त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत
सुदर्शन उवाच न बलं न सहायो मे न कोशो दुर्गसंश्रयः । न मित्राणि न सौहार्दी न नृपा रक्षका मम
अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः । स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः
नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी । तया यद्विहितं तच्च भविताऽद्य न संशयः
न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः । सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम्
यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः । शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम्
यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः । का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा
देवभूतमनुष्येषु सर्वभूतेषु सर्वदा । सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः
सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः । निर्धनं वा नरं कामं का चिन्ता वै तदा मम
तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः । न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः
अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् । तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे
सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै । नात्र शंका प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम्
जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः । भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा
व्यास उवाच इति तस्य तदाकर्ण्य वचनं राजसत्तमाः । ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः
सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्भवेत् । तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति
त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते । यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ
सुदर्शन उवाच सत्यमुक्तं भवद्भिश्च कृपावद्भिः सुहृज्जनैः । किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः
न मृत्युः केनचिद्भाव्यः कस्यचिद्वा कदाचन । दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम्
स्ववशोऽयं न जीवोऽस्ति स्वकर्मवशगः सदा । तत्कर्म त्रिविधं प्रोक्तं विद्वद्भिस्तत्त्वदर्शिभिः
सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् । कालकर्मस्वभावैश्च ततं सर्वमिदं जगत्
न देवो मानुषं हन्तुं शक्तः कालागमं विना । हतं निमित्तमात्रेण हन्ति कालः सनातनः
यथा पिता मे निहतः सिंहेनामित्रकर्षणः । तथा मातामहोऽप्येवं युद्धे युधाजिता हतः
यत्नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः । जीवेद्वर्षसहस्राणि रक्षणेन विना नरः
नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः । दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः
स्मरणं सततं नित्यं भगवत्याः करोम्यहम् । विश्वस्य जननी देवी कल्याणं सा करिष्यति
पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा । स्वकृतस्य च भोगेन कीदृक्शोको विजानताम्
स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः । निमित्तकारणे वैरं करोत्यल्पमतिः किल
न तथाऽहं विजानामि वैरं शोकं भयं तथा । निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह
एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् । भविष्यति च यद्भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया