धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । मानयं कुरु राजेन्द्र त्यज पापमतिं किल
दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः । राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति
अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः । कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम्
वृते तथा विवादः कः प्रवदन्तु महीभुजः । परस्परं विरोधोऽत्र न कर्तव्यो विजानता
स्वपितरं प्रति शशिकलावाक्यम् व्यास उवाच इतिवादिनि भूपाले केरलाधिपतौ तदा । प्रत्युवाच महाभाग युधाजिदपि पार्थिवः
नीतिरेषा महीपाल यद्ब्रवीति भवानिह । समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः
योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह । अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते
भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् । तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति
बलं वेदो हि विप्राणां भूभुजां चापजं बलम् । किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना
बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् । बलवानेव गृह्णातु नाबलस्तु कदाचन
तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् । अन्यथा कलहः कामं भविष्यति महीभुजाम्
एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् । आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः
समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः । राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता
किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः । पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि
सुबाहुरुवाच पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः । मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः
किं करोमि सुताया मे न वशे वर्तते मनः । सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः
व्यास उवाच सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् । ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः
राजपुत्र महाभाग केनाहूतोऽसि सुव्रत । एकाकी यः समायातः समाजे भूभृतामिह
न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् । किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते
युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे । कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि
भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया । युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः
गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् । त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत
सुदर्शन उवाच न बलं न सहायो मे न कोशो दुर्गसंश्रयः । न मित्राणि न सौहार्दी न नृपा रक्षका मम
अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः । स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः
नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी । तया यद्विहितं तच्च भविताऽद्य न संशयः
न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः । सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम्
यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः । शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम्
यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः । का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा
देवभूतमनुष्येषु सर्वभूतेषु सर्वदा । सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः
सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः । निर्धनं वा नरं कामं का चिन्ता वै तदा मम