सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्वरी । महामाया जगद्धात्री सच्चिदानन्दरूपिणी
व्यास उवाच इत्युक्त्वा तं तदा माता वेपमाना भयाकुला । उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा
निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे । सहैव नय मां वत्स यत्र ते गमने मतिः
इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा । विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः
वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः । ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः
निवेशार्थं गृहं दत्तमन्नपानादिकं तथा । सेवकं समनुज्ञाप्य परिचर्यार्थमेव च
मिलितास्त्वथ राजानो नानादेशाधिपाः किल । युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः
करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः । सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः
पाञ्चालः पर्वतीयश्च कामरूपोऽतिवीर्यवान् । कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः
अक्षौहिणी त्रिषष्टिश्च मिलिता संख्यया तदा । वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः
एते चान्ये च बहवः स्वयंवरदिदृक्षया । मिलितास्तत्र राजानो वरवारणसंयुताः
अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा । सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः
एकाकी रथमारुह्य मात्रा सह महामतिः । विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम्
एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ । किमेनं राजपुत्री सा वरिष्यति महाभुजम्
युधाजिदथ राजेशस्तानुवाच महीपतीन् । अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः
केरलाधिपतिः प्राह तं तदा नीतिसत्तमः । नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे
बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः । कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह
अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः । दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम
काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः । कथमेनं राजपुत्रं हनिष्यसि निरागसम्
लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम । शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । मानयं कुरु राजेन्द्र त्यज पापमतिं किल
दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः । राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति
अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः । कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम्
वृते तथा विवादः कः प्रवदन्तु महीभुजः । परस्परं विरोधोऽत्र न कर्तव्यो विजानता
स्वपितरं प्रति शशिकलावाक्यम् व्यास उवाच इतिवादिनि भूपाले केरलाधिपतौ तदा । प्रत्युवाच महाभाग युधाजिदपि पार्थिवः
नीतिरेषा महीपाल यद्ब्रवीति भवानिह । समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः
योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह । अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते
भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् । तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति
बलं वेदो हि विप्राणां भूभुजां चापजं बलम् । किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना
बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् । बलवानेव गृह्णातु नाबलस्तु कदाचन