भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् । मुनिना वारितः पश्चाज्जगाम निजमन्दिरम्
शशिकलोवाच मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः । शर्यातिवचनेनैव सुकन्या च पतिव्रता
च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता । भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा
अकैतवकृतं नूनं सुखदं भवति स्त्रियाः । भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम्
तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् । मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः
तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् । व्यास उवाच प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः
भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् । विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम्
द्विजं शशिकला तत्र प्रेषयामास सत्वरम् । यथा न वेद मे तातस्तथा गच्छ सुदर्शनम्
भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो । पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः
आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः । मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम्
भगवत्या समादिष्टः स्वप्ने मम सुरोपम । विषमद्मि हुताशे वा प्रपतामि प्रदीपिते
वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा । मनसा कर्मणा वाचा संवृतस्त्वं मया वरः
भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति । आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम्
यदधीनं जगत्सर्वं वर्तते सचराचरम् । भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति
यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः । वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः
यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ । इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया
गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः । सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा
चकार मुनिना तेन प्रेरितः परमादरात् । व्यास उवाच गमनायोद्यतं पुत्रं तमुवाच मनोरमा
वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना । कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल
एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे । युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः
न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक । एकपुत्रातिदीनास्मि तवाधारा निराश्रया
नार्हसि त्वं महाभाग निराशां कर्तुंमद्य माम् । पिता ते निहतो येन सोऽपि तत्रागतो नृपः
एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति । सुदर्शन उवाच भवितव्यं भवत्येव नात्र कार्या विचारणा
आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे । मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने
न बिभेमि प्रसादेन भगवत्या निरन्तरम् । व्यास उवाच इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम्
दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्चान्वमोदयत् । अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः
पार्वती पार्श्वयोः पातु शिवा सर्वत्र साम्प्रतम् । वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् । कालिका कलहे घोरे पातु त्वां परमेश्वरी
मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे । भवानी भूपमध्ये तु पातु त्वां भवमोचनी
गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च । कामगा काननेष्वेवं रक्षतु त्वां सनातनी
विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह । भैरवी चरणे सौम्य शत्रूणां वै समागमे