आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम्
को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् । सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा
ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी । योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा
परमात्मस्वरूपं को वेत्तुमर्हति तां विना । या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने
सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् । राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः
सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता । नानोपचारैरनिशं दधार दुःखितं वपुः
तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् । सुबाहुः कारयामास स्वयंवरमतन्द्रितः
स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः । राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल
इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः । यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम्
तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः । इच्छास्वयंवरं तत्र चकार नृपसत्तमः
शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः । ततश्च विविधाकाराः सु्क्लृप्ताः सभ्यमण्डपाः
एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे । सखीं शशिकला प्राह दुःखिता चारुलोचना
इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम । मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः
नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् । स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः
व्यास उवाच इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा । वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी
पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् । शृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना
भारद्वाजाश्रमे पुण्य़े ध्रुवसन्धिसुतोऽस्ति यः । स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम्
व्यास उवाच राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते । निवेदयामास तदा पुत्रीवाक्यं यथातथम्
तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः । भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः
सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने । एकाकी सह मात्रा वै वसते निर्जने वने
तत्कृते निहतो राजा वीरसेनो युधाजिता । स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने
ब्रूहि पुत्रीं ततो वाक्यं कदाचिदपि विप्रियम् । आगमिष्यन्ति राजानः स्थितिमन्तः स्वयंवरे
राजसंवादवर्णनम् व्यास उवाच भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् । उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम्
किं वृथा सुदति त्वं हि विप्रियं मम भाषसे । पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते
सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः । बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः
मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः । न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः
राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः । तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः
भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै । करोति रूपसम्पन्नः सर्वलक्षणसंयुतः
अन्यच्च कारणं सुभ्रु शृणु यच्च यथा श्रुतम् । युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः
दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् । वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह