आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः । भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः
व्यास उवाच रथारूढः स मेधावी यत्र याति सुदर्शनः । अक्षौहिणीसमावृत्त इवाभाति स तेजसा
प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते । एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा
सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् । जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात्
न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् । प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम
ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः । येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु
या माता सर्वदेवानां युगादौ परिकीर्तिता । आदिमातेति विख्याता नाम्ना तेन कुरूद्वह
बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते
न जानन्ति नरा ये वै मोहिता मायया किल । न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम्
ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम्
को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् । सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा
ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी । योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा
परमात्मस्वरूपं को वेत्तुमर्हति तां विना । या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने
सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् । राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः
सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता । नानोपचारैरनिशं दधार दुःखितं वपुः
तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् । सुबाहुः कारयामास स्वयंवरमतन्द्रितः
स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः । राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल
इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः । यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम्
तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः । इच्छास्वयंवरं तत्र चकार नृपसत्तमः
शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः । ततश्च विविधाकाराः सु्क्लृप्ताः सभ्यमण्डपाः
एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे । सखीं शशिकला प्राह दुःखिता चारुलोचना
इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम । मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः
नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् । स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः
व्यास उवाच इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा । वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी
पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् । शृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना
भारद्वाजाश्रमे पुण्य़े ध्रुवसन्धिसुतोऽस्ति यः । स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम्
व्यास उवाच राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते । निवेदयामास तदा पुत्रीवाक्यं यथातथम्
तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः । भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः
सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने । एकाकी सह मात्रा वै वसते निर्जने वने