अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् । दुनोति मदनः पापः किं करोमि क्व यामि च
स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः । तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु
चन्दनं देहलग्नं मे विषवद्भाति भामिनि । स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत्
न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते । न दिवा न निशायां वा न सुखं सुखसाधनैः
न शय्या न च ताम्बूलं न गीतं न च वादनम् । प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने
प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः । भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा
स्वयंवरं पिता मेऽद्य न करोति करोमि किम् । दास्यामि राजपुत्राय कामं सुदर्शनाय वै
सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः । रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः
व्यास उवाच एकाकी निर्धनश्चैव बलहीनः सुदर्शनः । वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता
वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता । सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम्
स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् । विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम्
शृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् । ददौ रथवरं तस्मै सर्वोपस्करसंयुतम्
चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् । जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा
सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् । वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम्
कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा । मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः
राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा । स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः
प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी । सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत
मनोरमां तथोचुस्ते मुनयः संशितव्रताः । पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते
सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् । दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात्
न सैन्यं सचिवाः कोशो न सहायश्च कश्चन । केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति
आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः । भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः
व्यास उवाच रथारूढः स मेधावी यत्र याति सुदर्शनः । अक्षौहिणीसमावृत्त इवाभाति स तेजसा
प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते । एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा
सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् । जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात्
न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् । प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम
ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः । येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु
या माता सर्वदेवानां युगादौ परिकीर्तिता । आदिमातेति विख्याता नाम्ना तेन कुरूद्वह
बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते
न जानन्ति नरा ये वै मोहिता मायया किल । न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम्
ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः