एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया । नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता
शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् । सर्वलक्षणसम्पन्नं शूरं काममिवापरम्
बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् । चकमे मनसा तं वै वरं वरयितुं धिया
स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे । उवाच वचनं चेदं समाश्वास्य सुसंस्थिता
वरं वरय सुश्रोणि मम भक्तः सुदर्शनः । सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि
एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् । अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी
उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः । प्रमोदे कारणं बाला नोवाचातित्रपान्विता
जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः । सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम्
कदाचित्सा विहारार्थमवापोपवनं शुभम् । सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम्
पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला । अपश्यद्ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम्
तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः । कुतो देशान्महाभाग कृतमागमनं त्वया
द्विज उवाच भारद्वाजाश्रमाद्बाले नूनमागमनं मम । जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे
शशिकलोवाच तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै । लोकातिगं विशेषेण प्रेक्षणीयतमं किल
ब्राह्मण उवाच ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः । यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः
तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे । येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः
एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा । गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात्
तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति । योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव
शशिकलया मातरं प्रति संदेशप्रेषणम् व्यास उवाच श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह । प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः
सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला । कामबाणहतेवास गते तस्मिन्द्विजोत्तमे
अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् । विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु
अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् । दुनोति मदनः पापः किं करोमि क्व यामि च
स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः । तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु
चन्दनं देहलग्नं मे विषवद्भाति भामिनि । स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत्
न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते । न दिवा न निशायां वा न सुखं सुखसाधनैः
न शय्या न च ताम्बूलं न गीतं न च वादनम् । प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने
प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः । भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा
स्वयंवरं पिता मेऽद्य न करोति करोमि किम् । दास्यामि राजपुत्राय कामं सुदर्शनाय वै
सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः । रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः
व्यास उवाच एकाकी निर्धनश्चैव बलहीनः सुदर्शनः । वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता
वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता । सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम्