तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् । नयध्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः
ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् । वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना
मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् । मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे
बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे । किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल
इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह । हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम्
उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा । सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः
सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता । एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः
हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् । ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः
तप्त्वा बहूनि वर्षाणि तपो घोरं महावने । ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः
तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् । कुलनाशकरं नूनं तापसैः सह संयुगम्
मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् । सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम्
बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् । वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ
दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् । ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति
वज्रं तृणायते राजन् दैवयोगान्न संशयः । तृणं वज्रायते क्वापि समये दैवयोगतः
शशको हन्ति शार्दूलं मशको वै तथा गजम् । साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम्
व्यास उवाच तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः । प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः
मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता । पालयामास पुत्रं तं सुदर्शनमृतव्रतम्
दिने दिने कुमारोऽसौ जगामोपचयं ततः । मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः
एकस्मिन्समये तत्र विदल्लं समुपागतम् । क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके
सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् । अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः
बीजं वै कामराजाख्यं गृहीतं मनसा तदा । जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम्
भावियोगान्महाराज कामराजाख्यमद्भुतम् । स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै
तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् । ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम्
प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि । विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम्
वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः । मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा
धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः । अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना
कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह । रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम्
गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्भुताम् । दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः
वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् । मातरं सेवमानस्तु विजहार नदीतटे
शरासनञ्च सम्प्राप्तं विशिखाश्च शिलाशिताः । तूणीरकवचं तस्मै दत्तं चाम्बिकया वने