प्रधान उवाच साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः । विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष
पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः । विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात्
नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् । उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः
निमन्त्रितो वसिष्ठेन भोजनाय महात्मना । ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः
नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् । भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम्
प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः । ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम्
विश्वामित्र उवाच मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् । नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप
वसिष्ठ उवाच होमधेनुरियं राजन्न ददामि कथञ्चन । सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु
विश्वामित्र उवाच अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् । द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ
वसिष्ठ उवाच कामं गृहाण नृपते बलादद्य यथारुचि । नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात्
तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् । नयध्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः
ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् । वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना
मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् । मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे
बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे । किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल
इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह । हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम्
उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा । सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः
सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता । एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः
हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् । ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः
तप्त्वा बहूनि वर्षाणि तपो घोरं महावने । ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः
तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् । कुलनाशकरं नूनं तापसैः सह संयुगम्
मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् । सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम्
बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् । वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ
दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् । ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति
वज्रं तृणायते राजन् दैवयोगान्न संशयः । तृणं वज्रायते क्वापि समये दैवयोगतः
शशको हन्ति शार्दूलं मशको वै तथा गजम् । साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम्
व्यास उवाच तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः । प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः
मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता । पालयामास पुत्रं तं सुदर्शनमृतव्रतम्
दिने दिने कुमारोऽसौ जगामोपचयं ततः । मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः
एकस्मिन्समये तत्र विदल्लं समुपागतम् । क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके
सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् । अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः