तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः । द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह
कुशलं ते वरारोहे क्व गताः पतयश्च ते । एकादश गतान्यद्य वर्षाणि च वने किल
द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज । विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः
एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः । जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान्
कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः । कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः
वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः । यज्ञकर्ता च दाता च शरण्यः साधुसंमतः
नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः । एकोनशतयज्ञान्वै स चकार सदक्षिणान्
सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि । निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये
कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः । राज्यं छलेन हृतवान्महीं चैव ससागराम्
सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा । कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम्
अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना । वामनं रूपमास्थाय यज्ञपातं चिकीर्षता
न च विश्वसितव्यं वै कदाचित्केनचित्तथा । लोभश्चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम्
लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल । परलोकाद्भयं नास्ति कस्यचित्कर्हिचिन्मुने
मनसा कर्मणा वाचा परस्वादानहेतुतः । प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः
देवानाराध्य सततं वाञ्छन्ति च धनं नराः । न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा
अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् । वाणिज्येनाथ दानेन चौर्येणापि बलेन वा
विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु । देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति
नात्र किं परवित्तेच्छा वाणिज्येन परन्तप । ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति
एवं हि प्राणिनः सर्वे परस्वादानतत्पराः । वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः
वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च । लोभमोहावृतानां वै कृतं तदकृतं भवेत्
तस्मादेनं महाभाग विसर्जय गृहं प्रति । सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम
इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् । उवाच वचनं राज्ञे भारद्वाजः प्रतापवान्
गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम । नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता
युधाजिदुवाच मुने मुञ्च हठं सौम्य विसर्जय मनोरमाम् । न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः
ऋषिरुवाच नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् । विश्वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा
विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् व्यास उवाच इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः । मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः
किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत । बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम्
रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता । राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत्
नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् । गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल
निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् । हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति