तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् । अतः सदैव संसेव्यं देवीभागवतं द्विजाः
यस्याः प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः । अंशांशका अपि च ते किमुतान्यदेवास्तस्यै नमोऽस्तु सततं जगदम्बिकायै
यत्पादपंकजरजः समवाप्य विश्वं ब्रह्मा सृजत्यनुदिनं च बिभर्ति विष्णुः । रुद्रश्च संहरति नेतरथा समर्थास्तस्यै नमोऽस्तु सततं जगदम्बिकायै
सुधाकूपारांतस्त्रिदशतरुवाटी विलसिते मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे । विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्षं च लभते
ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता। जगतः श्रेयसे साऽस्तु मणिद्वीपाधिदेवता
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात्
शौनक उवाच - सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः
अष्टादश पुराणानि कृष्णेन मुनिनानघ । कथितानि सुदिव्यानि पठितानि त्वयानघ
पञ्चलक्षणयुक्तानि सरहस्यानि मानद । त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात्
अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम्
समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् । पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः
दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः । कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम्
श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः । न शृण्वन्ति पुराणानि वञ्चिता विधिना हि ते
यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते । तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः
अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः । सकर्णा ये न शृण्वन्ति तेऽप्यकर्णाः कथं न च
अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः । वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः
येन केनाप्युपायेन कालातिवाहनं स्मृतम् । व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः
शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च । त्रिविधानि पुराणानि शास्त्राणि विविधानि च । विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च । नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च
सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् । तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम्
तथैव च पुराणानि त्रिगुणानि कथानकैः । कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च
तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् । कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम्
उद्देशमत्रेण तदा कीर्तितं परमाद्भुतम् । मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा
विस्तरेण तदाख्याहि पुराणोत्तममादरात् । श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम्
त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल । कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः
श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च । नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा
धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन । पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात्
सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः । न शान्तिमधिगच्छामः सूत सर्वात्मना वयम्
मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः । एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम्
विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन । भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके
अतः सर्वरसोपेतं पुण्यं भागवतं वद । पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम्