पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे
धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः
वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः । राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः
एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः
दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने । आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते
पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् । धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः
तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः । आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम्
श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् । उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः
यदा निरगमत्तत्र भृत्यद्वयसमन्वितः । वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः
कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः । आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह
तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा । आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम्
तासां मध्ये वरारोहा याज्ञसेनी समागता । जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा
तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् । पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना
भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी । रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता
बर्बूलवनमध्यस्था लवङ्गलतिका यथा । राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी
सत्यं वद महाभाग कस्येयं वल्लभाबला । राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज
धौम्य उवाच पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा । पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे
जयद्रथ उवाच क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः । वसन्त्यत्र वने वीरा वीतशोका महाबलाः
धौम्य उवाच मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः । आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः
तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः । द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह
कुशलं ते वरारोहे क्व गताः पतयश्च ते । एकादश गतान्यद्य वर्षाणि च वने किल
द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज । विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः
एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः । जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान्
कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः । कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः
वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः । यज्ञकर्ता च दाता च शरण्यः साधुसंमतः
नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः । एकोनशतयज्ञान्वै स चकार सदक्षिणान्
सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि । निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये
कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः । राज्यं छलेन हृतवान्महीं चैव ससागराम्
सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा । कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम्