हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना । नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा
केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः । सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः
मनोरमातिसाध्वी सा क्व गता सुतसंयुता । पिताऽस्या निहतः संख्ये राज्यलोभेन वैरिणा
इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः । अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः
युधाजिदपि दौहित्रं स्थापयित्वा विधानतः । राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति
श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् । हन्तुकामो जगामाशु चित्रकूटं स पर्वतम्
निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् । दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम्
श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता । आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम्
तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना । किं करोमि क्व गच्छामि युधाजित्समुपस्थितः
पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः । सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः
पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे
धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः
वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः । राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः
एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः
दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने । आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते
पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् । धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः
तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः । आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम्
श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् । उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः
यदा निरगमत्तत्र भृत्यद्वयसमन्वितः । वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः
कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः । आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह
तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा । आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम्
तासां मध्ये वरारोहा याज्ञसेनी समागता । जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा
तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् । पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना
भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी । रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता
बर्बूलवनमध्यस्था लवङ्गलतिका यथा । राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी
सत्यं वद महाभाग कस्येयं वल्लभाबला । राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज
धौम्य उवाच पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा । पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे
जयद्रथ उवाच क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः । वसन्त्यत्र वने वीरा वीतशोका महाबलाः
धौम्य उवाच मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः । आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः