समाहूय तमेकान्ते प्रोवाच बहुदुःखिता । गृहीत्वा बालकं हस्ते रुदती दीनमानसा
पिता मे निहतः संख्ये पुत्रोऽयं बालकस्तथा । युधाजिद्बलवान् राजा किं विधेयं वदस्व मे
तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च । गमिष्यामो वने कामं वाराणस्याः पुनः किल
तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः । सुबाहुरिति विख्यातो रक्षिता स भविष्यति
युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः । निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः
इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति । उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने
इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा । विदल्लेन च संयुक्ता निःसृता नगराद्बहिः
त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला । दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम्
संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला । दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम्
निषादैलुण्ठिता तत्र गृहीतं सकलं वसु । रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः
रुदती सुतमादाय चारुवस्त्रा मनोरमा । निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता
आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला । तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम्
भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला । संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा
मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः । कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते
देवी वा मानुषी वासि बालपुत्रा वने कथम् । राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे
एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी । रुदती दुःखसन्तप्ता विदल्लं च समादिशत्
विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः । तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा
सिंहेन निहतो राजा सूर्यवंशी महाबलः । पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः
अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे । युधाजिद्भयसन्त्रस्ता सम्प्राप्ता विजने वने
त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा । त्राता भव महाभाग त्वमस्या मुनिसत्तम
आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् । भयतस्तस्य दीनस्य विशेषफलदं स्मृतम्
ऋषिरुवाच निर्भया वस कल्याणि पुत्रं पालय सुव्रते । न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम्
पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति । नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति
व्यास उवाच इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह । उटजे मुनिना दत्ते वीतशोका तदावसत्
सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता । सुदर्शनं पालयाना न्यवसत्सा मनोरमा
युधाजिद्भारद्वाजयोः संवादवर्णनम् व्यास उवाच युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः । मनोरमां च पप्रच्छ सुदर्शनजिघांसया
सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् । शुभे दिनेऽथ दौहित्रं स्थापयामास चासने
मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः । अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः
भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः । उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह
विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा । अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः