निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः । प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम्
मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि । भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन्
हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः । राज्यलोभेन पापात्मा सेति चिन्तापराभवत्
किं करोमि क्व गच्छामि पिता मे निहतो रणे । भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः
लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः । किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः
पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् । हन्ति लोभसमाविष्टो जनो नात्र विचारणा
अभक्ष्यभक्षणं लोभादगम्यागमनं तथा । करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः
न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः । यदाधारे स्थिता चाहं पालयामि सुतं शुभम्
हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः । न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम्
सापि वैरयुता कामं सपत्नी सर्वदा भवेत् । लीलावती न मे पुत्रे भविष्यति दयावती
युधाजिति समायाते न मे निःसरणं भवेत् । ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति
श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः । कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा
प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् । एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि
सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया । गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम्
जातस्तु बालकः पश्चाद्देहे विषयुतः किल । तेनासौ सगरो नाम विख्यातो भुवि मण्डले
जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया । रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः
मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् । राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते
न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् । महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः
उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते । उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता
इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् । निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम्
समाहूय तमेकान्ते प्रोवाच बहुदुःखिता । गृहीत्वा बालकं हस्ते रुदती दीनमानसा
पिता मे निहतः संख्ये पुत्रोऽयं बालकस्तथा । युधाजिद्बलवान् राजा किं विधेयं वदस्व मे
तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च । गमिष्यामो वने कामं वाराणस्याः पुनः किल
तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः । सुबाहुरिति विख्यातो रक्षिता स भविष्यति
युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः । निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः
इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति । उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने
इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा । विदल्लेन च संयुक्ता निःसृता नगराद्बहिः
त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला । दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम्
संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला । दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम्
निषादैलुण्ठिता तत्र गृहीतं सकलं वसु । रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः