तत्राद्भुता क्षतजसिन्धुरुवाह घोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् । त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम्
कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ । तुम्बीफलानि विहितानि विहर्तुकामै- र्बालैर्यथा रविसुताप्रभवैश्च नूनम्
वीरं मृतं भुवि गतं पतितं रथाद्वै गृध्रः पलार्थमुपरि भ्रमतीति मन्ये । जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम्
आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् । पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कान्तम्
एको हतस्तु रिपुणैव गतोऽन्तरिक्षं देवाङ्गनां समधिगम्य युतो विमाने । तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कान्तमबला सबला स्वकीया
युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता- वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ । तत्रैव जघ्नतुरलं परमाहितास्त्रा- वेकाप्सरोऽर्थविहतौ कलहाकुलौ च
कश्चिद्युवा समधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्तः । स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः
भौमं रजोऽतिविततं दिवि संस्थितञ्च रात्रिं चकार तरणिञ्च समावृणोद्यत् । मग्नं तदेव रुधिराम्बुनिधावकस्मात् प्रादुर्बभूव रविरप्यतिकान्तियुक्तः
कश्चिद्गतस्तु गगनं किल देवकन्यां सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् । नाङ्गीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकूलशब्दः
सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः । जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः
निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः । प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम्
मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि । भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन्
हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः । राज्यलोभेन पापात्मा सेति चिन्तापराभवत्
किं करोमि क्व गच्छामि पिता मे निहतो रणे । भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः
लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः । किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः
पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् । हन्ति लोभसमाविष्टो जनो नात्र विचारणा
अभक्ष्यभक्षणं लोभादगम्यागमनं तथा । करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः
न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः । यदाधारे स्थिता चाहं पालयामि सुतं शुभम्
हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः । न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम्
सापि वैरयुता कामं सपत्नी सर्वदा भवेत् । लीलावती न मे पुत्रे भविष्यति दयावती
युधाजिति समायाते न मे निःसरणं भवेत् । ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति
श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः । कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा
प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् । एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि
सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया । गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम्
जातस्तु बालकः पश्चाद्देहे विषयुतः किल । तेनासौ सगरो नाम विख्यातो भुवि मण्डले
जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया । रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः
मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् । राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते
न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् । महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः
उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते । उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता
इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् । निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम्