मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः । सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः
परलोकगतं भूपं श्रुत्वा ते मन्त्रिसत्तमाः । संस्कारं कारयामासुर्गत्वा तत्र वनान्तिके
परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम् । कारयामास तत्रैव परलोकसुखावहम्
प्रजाः प्रकृतयश्चैव वसिष्ठश्च महामुनिः । सुदर्शनं नृपं कर्तुं मन्त्रं चक्रुः परस्परम्
धर्मपत्नीसुतः शान्तः पुरुषश्च सुलक्षणः । अयं नृपासनार्हश्च ह्यब्रुवन्मन्त्रिसत्तमाः
वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः । बालोऽपि धर्मवान् राजा नृपासनमिहार्हति
कृते मन्त्रे मन्त्रिवृद्धैर्युधाजिन्नाम पार्थिवः । तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः
मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा । तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया
वीरसेनस्तथाऽऽयातः सुदर्शनहितेच्छया । कलिङ्गाधिपतिश्चैव मनोरमापिता नृपः
उभौ तौ सैन्यसंयुक्तौ नृपौ साध्वससंस्थितौ । चक्रतुर्मन्त्रिमुख्यैस्तैर्मन्त्रं राज्यस्य कारणात्
युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुततोर्द्वयोः । राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन
वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल । राज्यार्हः स यथा राजन् शास्त्रज्ञेभ्यो मया श्रुतम्
युधाजित्पुनराहेदं ज्येष्ठोऽयं च यथा गुणैः । राजलक्षणसंयुक्तो न तथायं सुदर्शनः
विवादोऽत्र सुसम्पन्नो नृपयोस्तत्र लुब्धयोः । कः सन्देहमपाकर्तुं क्षमः स्यादतिसङ्कटे
युधाजिन्मन्त्रिणः प्राह यूयं स्वार्थपराः किल । सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ
युष्माकं तु विचारोऽयं मया ज्ञातस्तथेङ्गितैः । शत्रुजित्सबलस्तस्मात्सम्मतो वो नृपासने
मयि जीवति कः कुर्यात्कनीयांसं नृपं किल । त्यक्त्वा ज्येष्ठं गुणार्हञ्च सेनया च समन्वितम्
नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी । धारया च द्विधा भूयाद्युष्माकं तत्र का कथा
वीरसेनस्तु तच्छ्रुत्वा युधाजितमभाषत । बालौ द्वौ सदृशप्रज्ञौ को भेदोऽत्र विचक्षण
एवं विवदमानौ तौ संस्थितौ नृपती तदा । प्रजाश्च ऋषयश्चैव बभूवुर्व्यग्रमानसाः
समाजग्मुश्च सामन्ताः ससैन्याः क्लेशतत्पराः । विग्रहञ्चाभिकाङ्क्षन्तः परस्परमतन्द्रिताः
निषादा ह्याययुस्तत्र शृङ्गवेरपुराश्रयाः । राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम्
पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम् । चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि
सम्मर्दस्तत्र सञ्जातः कलहे समुपस्थिते । युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः
मनोरमया भारद्वाजाश्रमं प्रति गमनम् व्यास उवाच संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः । क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः
संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् । संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः
वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे । पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः
स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितञ्च । गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ
तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः । चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः
गजरथतुरगाणां सम्बभूवातियुद्धं सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् । विततविहगवृन्दैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृध्रादिभिश्च