श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः । चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता- स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः
युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् जनमेजय उवाच श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज । महिमानं तथाम्बाया वद विस्तरतो मम
श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् । प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः
व्यास उवाच शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । इतिहासं पुराणञ्च कथयामि सुविस्तरम्
कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः । पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः
धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः । अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः । स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन्
न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् । दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः
एवं वै वर्तमानस्य नृपस्य कुरुसत्तम । द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे
मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा । लीलावती द्वितीया च साऽपि रूपगुणान्विता
विजहार सपत्नीभ्यां गृहेषूपवनेषु च । क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च
मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् । सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम्
लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी । सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा
चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः । ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः
प्रीतिं तयोः समां राजा चकार सुतयोर्नृप । नृपश्चकार सौहार्देष्वन्तरं न कदाचन
चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः । यथाविभवमेवासौ प्रीतियुक्तः परन्तपः
कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः । क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ
तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः । शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह
नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः । प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै
तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः । मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने
एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः । जगाम वनमध्येऽसौ मृगयाभिरतः सदा
निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् । महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने
क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे । उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः
राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः । दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः
कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः । हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः
नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा । वामे चर्म समादाय स्थितः सिंह इवापरः
सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् । अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः
हाहाकारो महानासीत्सम्प्रहारश्च दारुणः । उत्पपात ततः सिंहो नृपस्योपरि दारुणः
तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः । सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः
स नखैराहतो राजा पपात च ममार वै । चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा