कामदः सर्वदेवानां परमः परमेश्वरः । सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्च याज्ञिकैः
त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि । श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः
शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम । पुराणेषु च सर्वेषु वेदेषु विततेषु च
त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति । यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले
तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् । अवताराः सुविख्याताः पृथिव्यां तव भागशः
भविष्यन्ति धरायां वै माननीया महात्मनाम् । अवतारेषु सर्वेषु नानायोनिषु माधव
विख्यातः सर्वलोकेषु भविता मधुसूदन । अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी
भविष्यति ममांशेन सर्वकार्यप्रसाधिनी । वाराही नारसिंही च नानाभेदैरनेकधा
नानायुधाः शुभाकाराः सर्वाभरणमण्डिताः । ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव
साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः । तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः
पूजनीयाः प्रयत्नेन माननीयाश्च सर्वथा । नूनं ता भारते खण्डे शक्तयः सर्वकामदाः
भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च । तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि
द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले । ताश्च त्वां वै महाभाग मानवा भुवि मण्डले
अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे । अर्चासु चोपहारैश्च नानाभावसमन्विताः
पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा । महिमा तव भूर्लोके स्वर्गे च मधुसूदन
पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः । व्यास उवाच इति दत्त्वा वरान्वाणी विरराम खसम्भवा
भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव । समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः
विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ । जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः
स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः । मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परम्
ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ
श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः । चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता- स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः
युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् जनमेजय उवाच श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज । महिमानं तथाम्बाया वद विस्तरतो मम
श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् । प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः
व्यास उवाच शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । इतिहासं पुराणञ्च कथयामि सुविस्तरम्
कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः । पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः
धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः । अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः । स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन्
न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् । दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः
एवं वै वर्तमानस्य नृपस्य कुरुसत्तम । द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे
मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा । लीलावती द्वितीया च साऽपि रूपगुणान्विता