मही चापि महीयस्त्वाद्धृता सा शेषमस्तके । गिरयश्च कृताः सर्वे धारणार्थ प्रविस्तराः
लोहकीलं यथा काष्ठे तथा ते गिरयः कृताः । महीधरो महाराज प्रोच्यते विबुधैर्जनैः
जातरूपमयो मेरुर्बहुयोजनविस्तरः । कृतो मणिमयैः शृङ्गैः शोभितः परमाद्भुतः
मरीचिर्नारदोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः
मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश । ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः
ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा । मनुष्यपशुसर्पादिजातिभेदैरनेकधा
ब्रह्मणश्चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् । शतरूपा तथा नारी सञ्जाता वामभागतः
प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः । तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः
एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्भवः । चकार ब्रह्मलोकञ्च मेरुशृङ्गे मनोहरम्
वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् । क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम्
शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह । समासाद्य भूतगणं विजहार यथारुचि
स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः । तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम्
समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः । चतुर्दन्तस्तथा नागः कामधेनुश्च कामदा
उच्चैःश्रवास्तथाश्वो वै रम्भाद्यप्सरसस्तथा । इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम्
धन्वन्तरिश्चन्द्रमाश्च सागराच्च समुद्बभौ । स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ
एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम । देवतिर्यङ्मनुष्यादिभेदैर्विविधकल्पिता
अण्डजाः स्वेदजाश्चैव चोद्भिज्जाश्च जरायुजाः । चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल
एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः । विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम्
एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः । महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके
एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा । सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम्
यत्र दृष्ट्वा महामायां मन्त्रश्चासादितः शुभः । स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा
यज्ञं कर्तुं मनश्चक्रे अम्बिकाया रमापतिः । उत्तीर्य भुवनात्तस्मात्समाहूय महेश्वरम्
ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् । वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम्
सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् । महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम्
मण्डपं विततं तत्र कारयामास शिल्पिभिः । ऋत्विजो वरयामास सप्तविंशतिसुव्रतान्
चितिञ्च कारयामास वेदीश्चैव सुविस्तराः । प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान्
जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते । कृते तु वितते होमे वागुवाचाशरीरिणी
विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा । विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा
मान्यश्च पूजनीयश्च समर्थश्च सुरेष्वपि । सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्च सवासवाः
प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः । वरदस्त्वं च सर्वेषां भविता मानवेषु वै