कथायां कीर्त्यमानायां ये वदंति दुरुत्तरम् । रासभास्ते भवंतीह कृकलासास्ततः परम्
निंदंति ये पुराणज्ञान्कथां वा पापहारिणीम् । ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः
ये शृण्वंति कथां वक्तुः समानासनसंस्थिताः । गुरुतल्पसमं पापं लभंते नरकालयाः
ये चाप्रणम्य शृण्वंति ते भवन्ति विषद्रुमाः । शयाना येऽपि शृण्वंति भवंत्यजगराहयः
ये कदाचन पौराणीं न शृण्वंति कथां नराः । ते घोरं नरकं भुक्त्वा भवन्ति ग्रामसूकराः
ये कथां नानुमोदंते विघ्नं कुर्वन्ति ये शठाः । कोट्यब्दं निरयं भुक्त्वा भवंति ग्रामसूकराः
आसनं भाजनं द्रव्यं फलं वस्त्राणि कम्बलम् । पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरेः पदम्
पुराणपुस्तकस्यापि ये पट्टवसनं नवम् । प्रयच्छन्ति शुभं सूत्रं ते नराः सुखभागिनः
पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत् । तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत्
यथा सरित्सु प्रवरा गंगा देवेषु शंकरः । काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः
आह्लादकानां चन्द्रश्च धनानां च यथा यशः । क्षमावतां यथा भूमिर्गाम्भीर्ये सागरो यथा
! मंत्राणां चैव सावित्री पापनाशे हरिस्मृतिः । अष्टादशपुराणानां देवीभागवतं तथा
येन केनाप्युपायेन नवकृत्वः शृणोति चेत् । न शक्यं तत्फलं वक्तुं जीवन्मुक्तः स एव ह
भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः । पुत्रलाभाय शृणुयाद्देवीभागवतं द्विजाः
श्रीमद्भागवतं यस्तु पठेद्वा शृणुयादपि । श्लोकार्द्धं श्लोकपादं वा संयाति परमां गतिम्
भगवत्या स्वयं देव्या श्लोकार्द्धेन प्रकाशितम् । शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम्
न गायत्र्याः परो धर्मो न गायत्र्याः परं तपः । न गायत्र्याः समो देवो न गायत्र्याः परो मनुः
गातारं त्रायते यस्माद्गायत्री तेन सोच्यते । साऽत्र भागवते देवी सरहस्या प्रतिष्ठिता
अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च । महांत्यपि पुराणानि कलां नार्हंति षोडशीम्
श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः । गायत्र्याश्च रहस्यमत्र च मणिद्वीपश्च संवर्णितः श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम्
तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् । अतः सदैव संसेव्यं देवीभागवतं द्विजाः
यस्याः प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः । अंशांशका अपि च ते किमुतान्यदेवास्तस्यै नमोऽस्तु सततं जगदम्बिकायै
यत्पादपंकजरजः समवाप्य विश्वं ब्रह्मा सृजत्यनुदिनं च बिभर्ति विष्णुः । रुद्रश्च संहरति नेतरथा समर्थास्तस्यै नमोऽस्तु सततं जगदम्बिकायै
सुधाकूपारांतस्त्रिदशतरुवाटी विलसिते मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे । विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्षं च लभते
ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता। जगतः श्रेयसे साऽस्तु मणिद्वीपाधिदेवता
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात्
शौनक उवाच - सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः
अष्टादश पुराणानि कृष्णेन मुनिनानघ । कथितानि सुदिव्यानि पठितानि त्वयानघ
पञ्चलक्षणयुक्तानि सरहस्यानि मानद । त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात्
अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम्