तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् । ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः
देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः । याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि
कृत्वा यज्ञं विधानेन दत्त्वा पुण्य़ं मखार्जितम् । समुद्धर महाराज पितरं दुर्गतिङ्गतम्
विप्रावमानजं पापं दुर्घटं नरकप्रदम् । तथैव शापजो दोषः प्राप्तः पित्रा तवानघ
तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा । अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे
न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् । मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह
कृपणानि च सर्वाणि नरकस्य नृपोत्तम । तत्रैकं कारणं तस्य न जातं चातिदुर्लभम्
यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् । साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे
यदा निर्वेदमायाति मनसा निर्मलेन वै । पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम्
पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः । नाशात्मकानि तत्त्वानि तत्र का परिदेवना
ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः । देहेन मम सम्बन्धः कर्मणा प्रतिपादितः
तानि सर्वाणि मुक्तानि शुभानि चेतराणि च । मनुष्यदेहयोगेन सुखदुःखानुसाधनात्
विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् । इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः
मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः । एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा
पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् । देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान्
नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् । कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै
औषधं मणिमन्त्रं च यन्त्रं परमकं तथा । आरोहणं तथा सौधे कृतवान्नृपतिस्तदा
न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् । न भूमौ शयनं चैव दैवं मत्वा परं तथा
मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः । कृत्वा पापं कलेर्योगात्तापसस्यावमानजम्
अवश्यमेव नरकं एतैराचरणैर्भवेत् । तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम
सूत उवाच इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः । साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः
धिगिदं जीवितं मेऽद्य पिता मे नरके स्थितः । तत्करोमि यथैवाद्य स्वर्गं यात्युत्तरासुतः
विष्णुनानुष्ठानवर्णनम् राजोवाच हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह । जगत्कारणरूपेण विष्णुना प्रभविष्णुना
के सहायास्तु तत्रासन्ब्राह्मणाः के महामते । ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप
पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा । श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः
व्यास उवाच राजञ्छृणु महाभाग विस्तरं परमाद्भुतम् । यथा भगवता यज्ञः कृतश्च विधिपूर्वकः
विसर्जिता यदा देव्या दत्त्वा शक्तीश्च तास्त्रयः । काजेशाः पुरुषा जाता विमानवरमास्थिताः
प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः । चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः
आधारशक्तिरचला मुक्ता देव्या स्वयं ततः । तदाधारा स्थिता जाता धरा मेदःसमन्विता
मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः