यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् । दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम्
तदा मायादिकं सर्वं दग्धं भवति भूमिप । प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति
जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् । कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम्
तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी । श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः
राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः । अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः
अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति । वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः
क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति । तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः
न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता । तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना
वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः । यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे
देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् । विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम
तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् । ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः
देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः । याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि
कृत्वा यज्ञं विधानेन दत्त्वा पुण्य़ं मखार्जितम् । समुद्धर महाराज पितरं दुर्गतिङ्गतम्
विप्रावमानजं पापं दुर्घटं नरकप्रदम् । तथैव शापजो दोषः प्राप्तः पित्रा तवानघ
तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा । अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे
न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् । मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह
कृपणानि च सर्वाणि नरकस्य नृपोत्तम । तत्रैकं कारणं तस्य न जातं चातिदुर्लभम्
यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् । साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे
यदा निर्वेदमायाति मनसा निर्मलेन वै । पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम्
पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः । नाशात्मकानि तत्त्वानि तत्र का परिदेवना
ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः । देहेन मम सम्बन्धः कर्मणा प्रतिपादितः
तानि सर्वाणि मुक्तानि शुभानि चेतराणि च । मनुष्यदेहयोगेन सुखदुःखानुसाधनात्
विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् । इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः
मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः । एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा
पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् । देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान्
नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् । कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै
औषधं मणिमन्त्रं च यन्त्रं परमकं तथा । आरोहणं तथा सौधे कृतवान्नृपतिस्तदा
न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् । न भूमौ शयनं चैव दैवं मत्वा परं तथा
मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः । कृत्वा पापं कलेर्योगात्तापसस्यावमानजम्
अवश्यमेव नरकं एतैराचरणैर्भवेत् । तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम