पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः । श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः
राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः । क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः
तामसा दानवानां वै सक्रोधा मदवर्धकाः । सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः
मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् । मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः
अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि । द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा
देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा । नान्यो भवति पूर्णे वै तथा भवति मानसः
प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् । शुद्धे मनसि देहो वै शुद्ध एव न संशयः
इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि । तदा तस्य मखस्यासौ प्रभवेदधिकारवान्
तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् । स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः
वेदीं च विशदां तत्र मनसा परिकल्पयेत् । अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल
ब्राह्मणानाञ्च वरणं तथैव प्रतिपाद्य च । ब्रह्माध्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम्
उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि । पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः
प्राणोऽपानस्तथा व्यानः समानोदान एव च । पावकाः पञ्च एवैते स्थाप्या वेद्यां विधानतः
गार्हपत्यस्तदा प्राणोऽपानश्चाहवनीयकः । दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः
सभ्योदानः स्मृता ह्येते पावकाः परमोत्कटाः । द्रव्यञ्च मनसा भाव्यं निर्गुणं परमं शुचि
मन एव तदा होता यजमानस्तथैव तत् । यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम्
फलदा निर्गुणा शक्तिः सदा निर्वेददा शिवा । ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता
तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः । पश्चाच्चित्तं निरालम्बं कृत्वा प्राणानपि प्रभो
कुण्डलीमुखमार्गेण हुनेद्ब्रह्मणि शाश्वते । स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम्
समाधिनैव योगेन ध्यायेच्चेतस्यनाकुलः । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि
यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् । दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम्
तदा मायादिकं सर्वं दग्धं भवति भूमिप । प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति
जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् । कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम्
तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी । श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः
राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः । अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः
अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति । वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः
क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति । तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः
न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता । तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना
वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः । यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे
देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् । विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम