न रक्षिता तदा बाला केनापि द्रुपदात्मजा । प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी
किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् । केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे
भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः । वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम्
साधनं निष्फलं सर्वमुपायश्च निरर्थकः । भवितव्यं भवत्येव वचने प्रतिपादके
आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः । स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा
सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि । उभयञ्चापि मन्तव्यं दैवं चोपाय एव च
कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् । वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः
तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः । कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः
यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः । विपरीतं कृतं तेन कर्म मातृहिताय वै
देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः । असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम्
दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा । शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः
क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् । नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया
भारद्वाजविनाशाय पुत्रस्योत्पादनाय च । धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी
पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा । अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे
अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् । अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम
पाण्डवानां यथा यज्ञे किञ्चिद्वैगुण्ययोगतः । विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे
सत्यवादी तथा राजन् धर्मपुत्रो युधिष्ठिरः । द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः
कुद्रव्ययोगाद्वैगुण्यं समुत्पन्नं मखेऽथवा । साभिमानैः कृताद्वापि दूषणं समुपस्थितम्
सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः । वैखानसमुनीनां हि विहितोऽसौ महामखः
सात्त्विकं भोजनं ये वै नित्यं कुर्वन्ति तापसाः । न्यायार्जितञ्च वन्यञ्च तथा ऋष्यं सुसंस्कृतम्
पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः । श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः
राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः । क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः
तामसा दानवानां वै सक्रोधा मदवर्धकाः । सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः
मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् । मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः
अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि । द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा
देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा । नान्यो भवति पूर्णे वै तथा भवति मानसः
प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् । शुद्धे मनसि देहो वै शुद्ध एव न संशयः
इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि । तदा तस्य मखस्यासौ प्रभवेदधिकारवान्
तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् । स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः
वेदीं च विशदां तत्र मनसा परिकल्पयेत् । अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल