सारस्वतं ततो बीजं जजाप विधिपूर्वकम् । पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले
प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा । आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल
तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे । येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः
तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः । आदिशक्तिः परा देवी जगतां कारणं हि सा
तस्या यज्ञं महाराज कुरु वेदविधानतः । सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा
स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता । ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते
अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः । दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान्
जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा । दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ
अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् । तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान्
तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् । पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः
राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ । स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान्
व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः । एभिर्न पूजिता देवी सर्वार्थफलदा शिवा
समाराधिता च तथा नृभिरेभिः सदाम्बिका । यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः
व्यास उवाच इति राजञ्छ्रुतं तत्र मया मुनिसमागमे । लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम्
इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् । भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ
अम्बायज्ञविधिवर्णनम् राजोवाच वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः । श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः
पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् । ब्राह्मणाः कतिसंख्याश्च दक्षिणाश्चतथा पुनः
व्यास उवाच शृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः । त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा
सात्त्विकं राजसं चैव तामसं च तथापरम् । मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम्
तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् । विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते
देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा । श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः
द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप । भवेद्यदि तदा पूर्णं फलं भवति नान्यथा
अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् । न कीर्तिरिह लोके च परलोके न तत्फलम्
तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा । यशसे परलोकाय भवत्येव सुखाय च
प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः । राजसूयः क्रतुवरः समाप्तवरदक्षिणः
यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः । ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा
कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः । प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः
पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः । वनवासो महत्कष्टं क्व गतं मखजं फलम्
दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः । कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा
आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् । भक्तिर्वा वासुदेवस्य क्व गता तत्र संकटे