तेनेति पृष्टः स मुनिर्महात्मा वितर्कमग्नः प्रबभूव कामम् । सत्यव्रतं मेऽद्य भवेन्न भग्नं न दृष्ट इत्युच्चरितेन किं वै
गतोऽत्र कोलः शरविद्धदेहः कथं ब्रवीम्यद्य मृषाऽमृषा वा । क्षुधार्दितोऽयं परिपृच्छतीव दृष्ट्वा हनिष्यत्यपि सूकरं वै
सत्यं न सत्यं खलु यत्र हिंसा दयान्वितं चानृतमेव सत्यम् । हितं नराणां भवतीह येन तदेव सत्यं न तथाऽन्यथैव
हितं कथं स्यादुभयोर्विरुद्धयो- स्तदुत्तरं किं न यथा मृषा वचः । विचारयन्वाडव धर्मसङ्कटे न प्राप वक्तुं वचनं यथोचितम्
बाणाहतं वीक्ष्य दयान्वितञ्च कोलं तदन्ते समुदाहृतं वचः । तेन प्रसन्ना निजबीजतः शिवा विद्यां दुरापां प्रददौ च तस्मै
बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला । वाल्मीकेश्च यथापूर्वं तथा स ह्यभवत्कविः
तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् । सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः
या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति । अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः
इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः । निराशः सूकरे तस्मिन्परावृत्तो निजालये
ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः । प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः
सारस्वतं ततो बीजं जजाप विधिपूर्वकम् । पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले
प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा । आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल
तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे । येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः
तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः । आदिशक्तिः परा देवी जगतां कारणं हि सा
तस्या यज्ञं महाराज कुरु वेदविधानतः । सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा
स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता । ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते
अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः । दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान्
जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा । दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ
अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् । तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान्
तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् । पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः
राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ । स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान्
व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः । एभिर्न पूजिता देवी सर्वार्थफलदा शिवा
समाराधिता च तथा नृभिरेभिः सदाम्बिका । यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः
व्यास उवाच इति राजञ्छ्रुतं तत्र मया मुनिसमागमे । लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम्
इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् । भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ
अम्बायज्ञविधिवर्णनम् राजोवाच वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः । श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः
पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् । ब्राह्मणाः कतिसंख्याश्च दक्षिणाश्चतथा पुनः
व्यास उवाच शृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः । त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा
सात्त्विकं राजसं चैव तामसं च तथापरम् । मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम्
तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् । विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते