प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् । न सन्ध्यां समिधो होमं विवेद च तथा मुनिः
सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् । स्नानं च शूद्रवत्तत्र गंगायां मन्त्रवर्जितम्
फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया । भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा
सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः । जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै
नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् । सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति
कदा मे मरणं भावि दुःखं जीवामि कानने । जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम्
दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम । प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना
यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः । अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः
किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् । न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने
न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला । तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः
न च तीर्थे तपस्तप्तं सेविता न च साधवः । न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः
वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः । अहं सुमूढः सञ्जातो दैवयोगेन केनचित्
न जानामि तपस्तप्तुं किं करोमि सुसाधनम् । मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा
ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः । कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः
एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः । स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले
विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः । कालातिवाहनं शान्तश्चकार विजने वने
एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपञ्च गतानि कामम् । नाराधनं न च जपं न विवेद मन्त्रं कालातिवाहनमसौ कृतवान् वने वै
जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् । जातं यशश्च सकलेषु जनेषु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी
तत्रैकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः । क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृतिर्हननकर्मणि चातिदक्षः
तेनातिकृष्टेन शरेण विद्धः कोलः किरातेन धनुर्धरेण । पलायमानो भयविह्वलश्च मुनेः समीपं विद्रुतो जगाम
विकंपमानो रुधिरार्द्रदेहो यदा जगामाश्रममण्डलं वै । कालस्तदातीव दयार्द्रभावं प्राप्तो मुनिस्तत्र समीक्ष्य दीनम्
अग्रे व्रजन्तं रुधिरार्द्रदेहं दृष्ट्वा मुनिः सूकरमाशु विद्धम् । दयाभिवेशादतिकम्पमानः सारस्वतं बीजमथोच्चचार
अज्ञातपूर्वं च तथाश्रुतञ्च दैवान्मुखे वै समुपागतञ्च । न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा
कोलः प्रविश्याश्रममण्डलं तद् गतो निकुञ्जे प्रविलीय गूढम् । अप्राप्तमार्गो दृढनिर्विण्णचेताः प्रवेपमानः शरपीडितत्वात्
ततः क्षणादाकरणान्तकृष्टं चापं दधानोऽतिकरालदेहः । प्राप्तस्तदन्ते स च मृग्यमाणो निषादराजः किल काल एव
दृष्ट्वा मुनिं तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम् । व्याधः प्रणम्य प्रमुखे स्थितोऽसौ पप्रच्छ कोलः क्व गतो द्विजेश
जानामि तेऽहं सुव्रतं प्रसिद्धं तेनाद्य पृच्छे मम बाणविद्धः । क्षुधार्दितं मे सकलं कुटुम्बं विभर्तुकामः किल आगतोऽस्मि
वृत्तिर्ममैषा विहिता विधात्रा नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि । भर्तव्यमेवेह कुटुम्बमञ्जसा केनाप्युपायेन शुभाशुभेन
सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि क्षुधातुरो वर्तते पोष्यवर्गः । क्वासो गतः सूकरो बाणविद्धः पृच्छाम्यहं वाडव ब्रूहि तूर्णम्