दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् । मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति
इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः । इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि
कालेन कियता तस्य भार्या रूपमती सती । गर्भं दधार काले सा रोहिणी रोहिणीसमा
गर्भाधानादिकं कर्म चकार विधिवद्द्विजः । पुंसवनविधानञ्च शृङ्गारकरणं तथा
सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः । ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा
शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते । दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः
पुत्रदर्शनकं कृत्वा नामकर्म चकार च । उतथ्य इति पुत्रस्य कृतं नाम पुराविदा
स चाष्टमे तथा वर्षे शुभे वै शुभवासरे । तस्योपनयनं कर्म चकार विधिवत्पिता
वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् । नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा
बहुधा पाठितः पित्रा न दधार मतिं शठः । मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा
एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः । न वेद विधिवत्कर्तुं सन्ध्यावन्दनकं विधिम्
मूर्खोऽभूदिति लोकेषु गता वार्ताऽतिविस्तरा । ब्राह्मणेषु च सर्वेषु तापसेष्वितरेषु च
जहास लोकस्तं विप्रं यत्र तत्र गतं मुने । पिता माता निनिन्दाथ मूर्खं तमतिभर्त्सयन्
निन्दितोऽथ जनैः कामं पितृभ्यामथ बान्धवैः । वैराग्यमगमद्विप्रो जगाम वनमप्यसौ
अन्धो वरस्तथा पङ्गुर्न मूर्खस्तु वरः सुतः । इत्युक्तोऽसौ पितृभ्यां वै विवेश काननं प्रति
गंगातीरे शुभे स्थाने कृत्वोटजमनुत्तमम् । वन्यां वृत्तिं च सङ्कल्प्य स्थितस्तत्र समाहितः
नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् । स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो हि सः
सत्यव्रताख्यानवर्णनम् लोमश उवाच न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा । ध्यानं न देवतानाञ्च न चैवाराधनं तथा
नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः । प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम्
न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः । शौचं स्नानविधिञ्चैव तथाचमनकं पुनः
प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् । न सन्ध्यां समिधो होमं विवेद च तथा मुनिः
सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् । स्नानं च शूद्रवत्तत्र गंगायां मन्त्रवर्जितम्
फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया । भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा
सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः । जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै
नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् । सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति
कदा मे मरणं भावि दुःखं जीवामि कानने । जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम्
दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम । प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना
यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः । अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः
किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् । न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने
न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला । तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः