कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि । अक्रोधना हि मुनयो भवन्ति सुखदाः सदा
स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् । अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः
मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः । तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि
पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु । किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम
यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः । न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु
देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः । करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा
नासने पितृकार्येषु देवकार्येषु स द्विजः । मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता
राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु । कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः
विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन
आहारादधिकं चान्नं न दातव्यमपण्डिते । दाता नरकमाप्नोति ग्रहीता तु विशेषतः
धिग्राज्यं तस्य राज्ञो वै यस्य देशेऽबुधा जनाः । पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि
आसने पूजने दाने यत्र भेदो न चाण्वपि । मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै
मूर्खा यत्र सुगर्विष्ठा दानमानपरिग्रहैः । तस्मिन्देशे न वस्तव्यं पण्डितेन कथञ्चन
असतामुपकाराय दुर्जनानां विभूतयः । पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते
भुक्त्वान्नं वेदविद्विप्रो वेदाभ्यासं करोति वै । क्रीडन्ति पूर्वजास्तस्य स्वर्गे प्रमुदिताः किल
गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम । संसारे मूर्खपुत्रत्वं मरणादतिगर्हितम्
कृपां कुरु महाभाग शापस्यानुग्रहं प्रति । दीनोद्धारणशक्तोऽसि पतामि तव पादयोः
लोमश उवाच इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः । स्तुवन्दीनहृदत्यर्थं कृपणः साश्रुलोचनः
गोभिलस्तु तदा तत्र दृष्ट्वा तं दीनचेतसम् । क्षणकोपा महान्तो वै पापिष्ठाः कल्पकोपनाः
जलं स्वभावतः शीतं पावकातपयोगतः । उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत्
दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् । मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति
इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः । इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि
कालेन कियता तस्य भार्या रूपमती सती । गर्भं दधार काले सा रोहिणी रोहिणीसमा
गर्भाधानादिकं कर्म चकार विधिवद्द्विजः । पुंसवनविधानञ्च शृङ्गारकरणं तथा
सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः । ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा
शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते । दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः
पुत्रदर्शनकं कृत्वा नामकर्म चकार च । उतथ्य इति पुत्रस्य कृतं नाम पुराविदा
स चाष्टमे तथा वर्षे शुभे वै शुभवासरे । तस्योपनयनं कर्म चकार विधिवत्पिता
वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् । नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा
बहुधा पाठितः पित्रा न दधार मतिं शठः । मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा