जमदग्निरुवाच सन्देहोऽस्ति महाभागा मम चेतसि तापसाः । समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम्
ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः । कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः
सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा । आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः
सुखसेव्यश्च सततं चाशुतोषश्च मानदाः । ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः
एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् । जमदग्ने शृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना
सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् । परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा
देवानां जननी सैव ब्रह्मादीनां महात्मनाम् । आदिप्रकृतिमूलं सा संसारपादपस्य वै
स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् । सर्वदैवार्द्रचित्ता सा वरदानाय सेविता
इतिहासं प्रवक्ष्यामि शृण्वन्तु मुनयः शुभम् । अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै
कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः । अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम्
तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् । द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान्
कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् । पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः
ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् । अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम्
प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् । सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु
उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् । रथन्तरमगायत्तु स्वरितेन समन्वितम्
तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः । देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह
मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः । काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे
गोभिलस्तु तदोवाच देवदत्तं सुकोपितः । मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः
सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः । न मेऽत्र दूषणं किंचित्स्वरभङ्गे महामते
तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः । शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः
कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि । अक्रोधना हि मुनयो भवन्ति सुखदाः सदा
स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् । अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः
मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः । तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि
पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु । किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम
यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः । न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु
देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः । करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा
नासने पितृकार्येषु देवकार्येषु स द्विजः । मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता
राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु । कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः
विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन
आहारादधिकं चान्नं न दातव्यमपण्डिते । दाता नरकमाप्नोति ग्रहीता तु विशेषतः