श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः । बिन्दुहीनं प्रसंगेन जातोऽसौ विबुधोत्तमः
ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा । चकार कविराजं तं दयार्द्रा परमेश्वरी
सत्यव्रताख्यानवर्णनम् जनमेजय उवाच कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः । कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे
कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः । सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात्
कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता । विस्तरेण वदस्वाद्य कथामेतां मनोरमाम्
सूत उवाच इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः । उवाच परमोदारं वचनं रसवच्छुचि
व्यास उवाच शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । श्रुता मुनिसमाजेषु मया पूर्वं कुरूद्वह
एकदाऽहं कुरुश्रेष्ठ कुर्वंस्तीर्थाटनं शुचि । सम्प्राप्तो नैमिषारण्यं पावनं मुनिसेवितम्
प्रणम्याहं मुनीन्सर्वान् स्थितस्तत्र वराश्रमे । विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः
कथाप्रसंग एवासीत्तत्र विप्रसमागमे । जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः
जमदग्निरुवाच सन्देहोऽस्ति महाभागा मम चेतसि तापसाः । समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम्
ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः । कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः
सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा । आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः
सुखसेव्यश्च सततं चाशुतोषश्च मानदाः । ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः
एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् । जमदग्ने शृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना
सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् । परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा
देवानां जननी सैव ब्रह्मादीनां महात्मनाम् । आदिप्रकृतिमूलं सा संसारपादपस्य वै
स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् । सर्वदैवार्द्रचित्ता सा वरदानाय सेविता
इतिहासं प्रवक्ष्यामि शृण्वन्तु मुनयः शुभम् । अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै
कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः । अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम्
तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् । द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान्
कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् । पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः
ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् । अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम्
प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् । सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु
उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् । रथन्तरमगायत्तु स्वरितेन समन्वितम्
तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः । देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह
मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः । काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे
गोभिलस्तु तदोवाच देवदत्तं सुकोपितः । मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः
सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः । न मेऽत्र दूषणं किंचित्स्वरभङ्गे महामते
तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः । शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः