यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् । बीजोपस्करयुक्तानां सुखदं प्रभवत्युत
अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः । तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम्
प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि । स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै
लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम् । लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा
यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च । निर्मलं च तथा चेतो गृह्णाति विषयान्न तान्
तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् । जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः
यदा तदुत्कटं जातं देहे यस्य च कस्यचित् । कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा
चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा । गुरुमावरणं कामं तमो भवति तद्यदा
तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च । इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति
गुणानां लक्षणान्येवं विज्ञेयानीह नारद । नारद उवाच विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः
कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् । परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल
एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे । ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः
प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् । वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम्
विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् । तैलं वर्तिविरोध्येव पावकोऽपि परस्परम्
एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् । नारद उवाच एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत
विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् । व्यास उवाच इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम्
गुणानां लक्षणं सर्वं कार्यं चैव विभागशः । आराध्या परमा शक्तिर्यया सर्वमिदं ततम्
सगुणा निर्गुणा चैव कार्यभेदे सदैव हि । अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः
करोत्येषा महामाया विश्वं सदसदात्मकम् । ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः
अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः । वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः
सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च । अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः
सा चैव कारणं राजन् जगतः परमेश्वरी । समाराधय तां भूप कुरु यज्ञं जनाधिप
पूजनं परया भक्त्या तस्या एव विधानतः । महालक्ष्मीर्महाकाली तथा महासरस्वती
ईश्वरी सर्वभूतानां सर्वकारणकारणम् । सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता
नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा । देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः
मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः । अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम्
ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा । ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने
बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै । तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम
प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् । ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः
कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् । अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः