मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा । दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि
एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च । रजसस्तमसश्चैव जनिता वृत्तिरन्यथा
रजसा स्त्रीकृतेनैव तमसा च तथा पुनः । अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै
अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च । लक्ष्यते विपरीतानि योगान्नारद कुत्रचित्
यथा रूपवती नारी यौवनेन विभूषिता । लज्जामाधुर्ययुक्ता च तथा विनयसंयुता
कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता । भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा
मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः । तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै
चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् । दुःखा मूढा च दस्यूनां सैव सेना तथागुणा
विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः । यथा च दुर्दिनं जातं महामेघघनावृतम्
विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् । सिंचद्भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम्
यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् । बीजोपस्करयुक्तानां सुखदं प्रभवत्युत
अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः । तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम्
प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि । स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै
लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम् । लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा
यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च । निर्मलं च तथा चेतो गृह्णाति विषयान्न तान्
तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् । जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः
यदा तदुत्कटं जातं देहे यस्य च कस्यचित् । कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा
चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा । गुरुमावरणं कामं तमो भवति तद्यदा
तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च । इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति
गुणानां लक्षणान्येवं विज्ञेयानीह नारद । नारद उवाच विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः
कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् । परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल
एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे । ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः
प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् । वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम्
विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् । तैलं वर्तिविरोध्येव पावकोऽपि परस्परम्
एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् । नारद उवाच एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत
विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् । व्यास उवाच इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम्
गुणानां लक्षणं सर्वं कार्यं चैव विभागशः । आराध्या परमा शक्तिर्यया सर्वमिदं ततम्
सगुणा निर्गुणा चैव कार्यभेदे सदैव हि । अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः
करोत्येषा महामाया विश्वं सदसदात्मकम् । ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः
अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः । वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः