भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः । तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः
सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद
प्रसह्याभिभवत्येव तद्रजस्तमसी उभे । रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः
तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे । तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः
तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि । विस्तरं कथयाम्यद्य यथाभिभवतीति वै
यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा । न चिन्तयति बाह्यार्थं रजस्तमःसमुद्भवम्
अर्थं सत्त्वसमुद्भूतं गृह्णाति च न चान्यथा । अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति
सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा । राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः
एवं जित्वा रजः पूर्वं ततश्च तमसो जयः । सत्त्वं च केवलं पुत्र तदा भवति निर्मलम्
यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् । अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम्
राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः । सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः
यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह । तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च
श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् । द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति
जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः । वर्तते कामचारेण भावेषु विततेषु च
एकं सत्त्वं न भवति रजश्चैकं तमस्तथा । सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः
रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित् । तमो विना न चैवैते वर्तन्ते पुरुषर्षभ
तमस्ताभ्यां विहीनं तु केवलं न कदाचन । सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै
अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः । अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः
सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत । कदाचित्तु रजः सत्त्वतमसी जनयत्यपि
कदाचित्तु तमः सत्त्वरजसी जनयत्युभे । जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा
बुद्धिस्थास्ते गुणाः कामान्बोधयन्ति परस्परम् । देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा
यथा स्त्रीपुरुषश्चैव मिथुनौ च परस्परम् । तथा गुणाः समायान्ति युग्मभावं परस्परम्
रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः । उभे ते सत्त्वरजसी तमसो मिथुने विदुः
नारद उवाच इत्येतत्कथितं पित्रा गुणरूपमनुत्तमम् । श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम्
गुणानां गुणपरिज्ञानवर्णनम् नारद उवाच गुणानां लक्षणं तात भवता कथितं किल । न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम्
गुणानां तु परिज्ञानं यथावदनुवर्णय । येनाहं परमां शान्तिमधिगच्छामि चेतसि
व्यास उवाच इति पृष्टस्तु पुत्रेण नारदेन महात्मना । उवाच च जगत्कर्ता रजोगुणसमुद्भवः
ब्रह्मोवाच शृणु नारद वक्ष्यामि गुणानां परिवर्णनम् । सम्यङ् नाहं विजानामि यथामति वदामि ते
सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते । मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै
यथा काचिद्वरा नारी सर्वभूषणभूषिता । हावभावयुता कामं भर्तुः प्रीतिकरी भवेत्