श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी । निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम्
स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् । स्थितस्तत्र कियत्कालं रजोगुणसमावृतः
रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः । पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः
श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर । न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद
निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम । कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम्
पापदेहविकारा ये कामक्रोधादयः परे । लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः
असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद । न निर्गतानि देहात्तु तावत्पापयुतो नरः
कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् । निष्फलः श्रम एवैकः कर्षकस्य यथा तथा
श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा । उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता
अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः । काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम्
भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः । तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः
सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद
प्रसह्याभिभवत्येव तद्रजस्तमसी उभे । रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः
तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे । तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः
तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि । विस्तरं कथयाम्यद्य यथाभिभवतीति वै
यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा । न चिन्तयति बाह्यार्थं रजस्तमःसमुद्भवम्
अर्थं सत्त्वसमुद्भूतं गृह्णाति च न चान्यथा । अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति
सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा । राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः
एवं जित्वा रजः पूर्वं ततश्च तमसो जयः । सत्त्वं च केवलं पुत्र तदा भवति निर्मलम्
यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् । अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम्
राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः । सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः
यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह । तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च
श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् । द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति
जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः । वर्तते कामचारेण भावेषु विततेषु च
एकं सत्त्वं न भवति रजश्चैकं तमस्तथा । सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः
रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित् । तमो विना न चैवैते वर्तन्ते पुरुषर्षभ
तमस्ताभ्यां विहीनं तु केवलं न कदाचन । सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै
अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः । अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः
सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत । कदाचित्तु रजः सत्त्वतमसी जनयत्यपि
कदाचित्तु तमः सत्त्वरजसी जनयत्युभे । जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा