कूष्मांडनलिकाशाकं न भुंजीत कथाव्रती । कामं क्रोधं मदं लोभं दंभं मानं च वर्जयेत्
विप्रध्रुक्पतितव्रात्यश्वपाकयवनांत्यजैः । उदक्यया वेदबाह्यैर्न वदेद्यः कथाव्रती
वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा । देवानां देवभक्तानां न निंदां शृणुयादपि
विनयं चार्जवं शौचं दयां च मितभाषणम् । उदारं मानसं चैव कुर्याद्यस्तु कथाव्रती
वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका । दरिद्रश्चानपत्यश्च भक्त्येमां शृणुयात्कथाम्
वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका । पतद्गर्भांगना या च ताभिः श्राव्या तथा कथा
धर्मार्थकाममोक्षांश्च यो वांछति विना श्रमम् । भगवत्या भागवतं श्रोतव्यं तेन यत्नतः
कथादिनानि चैतानि नययज्ञैः समानि हि । तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत्
एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत् । महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः
निष्कामाः श्रवणेनैव पूता मुक्तिं व्रजन्ति हि । भोगमोक्षप्रदा नॄणां यतो भगवती परा
पुस्तकस्य च वक्तुश्च पूजा कार्या तु नित्यशः । वक्त्रा दत्तं प्रसादं तु गृह्णाद्भक्तिपूर्वकम्
कुमारी: पूजयेन्नित्यं भोजयेत्प्रार्थयेच्च यः । सुवासिनीश्च विप्रांश्च तस्य सिद्धिर्न संशयः
गायत्र्या नामसाहस्रं समाप्तावथ वा पठेत् । विष्णोर्नामसहस्रं च सर्वदोषोपशान्तये
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति तस्माद्विष्णुं च कीर्तयेत्
देव्याः सप्तशतीमंत्रैः समाप्तौ होममाचरेत् । देवीमाहात्म्यमूलेन नवार्णमनुनाऽथवा
गायत्र्या त्वथवा होमः पायसेन ससर्पिषा । यतो भागवतं त्वेतद्गायत्रीमयमीरितम्
वाचकं तोषयेत्सम्यग्वस्त्रभूषाधनादिभिः । प्रसन्ने वाचके सर्वाः प्रसन्ना तस्य देवताः
ब्राह्मणान्भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् ! पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम्
सुवासिनी: कुमारीश्च देवीभक्तया च भोजयेत् । ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः
दद्याद्दानानि चान्यानि सुवर्णं गाः पयस्विनीः । हयानिभान्मेदिनीं च तस्य स्यादक्षयं फलम्
देवीभागवतं चैतल्लिखितं शोभनाक्षरम् । हेमसिंहासने स्थाप्यं पट्टवस्त्रेण वेष्टितम्
अष्टम्यां वा नवम्यां च वाचकायार्चिताय च । दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात्
दरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा । पुराणवेत्ता वैद्यः स्यात्पूज्यो मान्यश्च सर्वदा
सन्ति लोकस्य बहवो गुरवो गुणजन्मतः । सर्वेषामपि तेषां च पुराणज्ञः परो गुरुः
पौराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः । असमाप्ते प्रसंगे तु नमस्कुर्यान्न कस्यचित्
पौराणिकीं कथां दिव्यां येऽपि शृण्वंत्यभक्तितः । तेषां पुण्यफलं नास्ति दुःखदारिद्र्यभागिनाम्
असंपूज्य पुराणं तु ताम्बूलकुसुमादिभिः । ये शृण्वंति कथां देव्यास्ते दरिद्रा भवंति हि
कीर्त्यमानां कथां त्यक्त्वा ये व्रजंत्यन्यतो नराः । भोगान्तरे प्रणश्यंति तेषां दाराश्च सम्पदः
ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः । ते वायसा भवंत्यत्र भुक्त्वा निरययातनाम्
` ये चाढ्यासनसंस्थाश्च ये वीरासनसंस्थिताः । शृण्वंति च कथां दिव्यां ते स्युरर्जुनशाखिनः