साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते । शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम्
मम चैव शरीरं वै सूत्रमित्यभिधीयते । स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः
शृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते । तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै
पञ्चीकृत्य तु तान्येव पञ्चभूतसमुद्भवः । पञ्चीकरणभेदोऽयं शृणु संवदतः किल
प्रथमं रसतन्मात्रामुपादाय मनस्यपि । कल्पयेच्च तथा तद्वै यथा भवति चोदकम्
शिष्टानां चैव भूतानामंशान्कृत्वा पृथक्पृथक् । उदके मिश्रयेच्चांशान्कृते रसमये ततः
तदा भूतविभागे च चैतन्ये च प्रकाशिते । चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः
प्रतीयमाने तेनैव विशेषेणाभिमानतः । आदिनारायणो देवो भगवानिति चोच्यते
घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते । वृद्धिं प्राप्य गुणैश्चेत्थमेकैकगुणवृद्धितः
आकाशस्य गुणश्चैकः शब्द एव न चापरः । शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीर्तितौ
अग्नेः शब्दश्च स्पर्शश्च रूपमेते त्रयो गुणाः । शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च
स्पर्शशब्दरसा रूपं गन्धश्च पृथिवीगुणाः । एवं मिलितयोगैश्च ब्रह्माण्डोत्पत्तिरुच्यते
सर्वे जीवा मिलित्वैव ब्रह्माण्डांशसमुद्भवाः । चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः
गुणानां रूपसंस्थानादिवर्णनम् ब्रह्मोवाच सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना । गुणानां रूपसंस्थां वै शृणुष्वैकाग्रमानसः
सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्भवः । आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः
अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च । एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा
श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा । सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम्
सात्त्विकी राजसी चैव तामसी च तथापरा । श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः
रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्भुतम् । अप्रीतिर्दुःखयोगत्वाद्भवत्येव सुनिश्चिता
प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च । उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी
मानो मदस्तथा गर्वो रजसा किल जायते । प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः
कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् । आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा
विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च । वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम्
प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः । तामस्या श्रद्धया युक्तं परतापोपपादकम्
सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा । संहर्तव्यं तमः कामं जनेन शुभमिच्छता
अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् । तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः
सत्त्वं न केवलं क्वापि न रजो न तमस्तथा । मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः
अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् । शृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात्
सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः । ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति
श्रवणाद्दर्शनाच्चैव सपद्येव महामते । संस्कारानुभवाच्चैव परिज्ञातं न जायते