निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् । ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः
अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ । विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित्
चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् । तेजः सर्वत्रगं नित्यं नानाभावेषु नारद
तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ । ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते
तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ । एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ
या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता । अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद
अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद । न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना
अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् । कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि
निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा । सगुणं च महाबुद्धे चेतसा संविचारय
पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम । कटु पित्तं विजानाति रसं रूपं न तत्तथा
गुणैः समावृतं चेतः कथं जानाति निर्गुणम् । अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत्
यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः । तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः
नारद उवाच स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् । गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः
सात्त्विको राजसश्चैव तामसश्च तथापरः । विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम
यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो । गुणानां लक्षणान्येव विततानि विभागशः
ब्रह्मोवाच त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ । ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा
सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका । द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव
तेषां कार्याणि वक्ष्यामि शृणु नारद तत्त्वतः । तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः
रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते । शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा
सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् । पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद
दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै । तामसाहङ्कारजः स्यात्सर्गस्तदनुवृत्तिकः
राजस्याश्च क्रियाशक्तेरुत्पन्नानि शृणुष्व मे । श्रोत्रं त्वग्रसना चक्षुर्घ्राणं चैव च पञ्चमम्
ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । वाक्पाणिपादपायुश्च गुह्यान्तानि च पञ्च वै
प्राणोऽपानश्च व्यानश्च समानोदानवायवः । पञ्चदश मिलित्वैव राजसः सर्ग उच्यते
साधनानि किलैतानि क्रियाशक्तिमयानि च । उपादानं किलैतेषां चिदनुवृत्तिरुच्यते
ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्भवाः । दिशो वायुश्च सूर्यश्च वरुणश्चाश्विनावपि
ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः । चन्द्रो ब्रह्मा तथा रुद्रः क्षेत्रज्ञश्च चतुर्थकः
इत्यन्तःकरणाख्यस्य बुद्ध्यादेश्चाधिदैवतम् । चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः
मनसा सह चैतानि नूनं पञ्चदशैव तु । सात्त्विकस्य तु सर्गोऽयं सात्त्विकाख्यः प्रकीर्तितः
स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः । ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते