आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पङ्कजसन्निधौ च । महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ
तत्त्वनिरूपणवर्णनम् ब्रह्मोवाच एवंप्रभावा सा देवी मया दृष्टाथ विष्णुना । शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक्
व्यास उवाच इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः । पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः
नारद उवाच पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः । दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह
त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः । तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज
यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः । दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः
परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः । पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते
भवता सगुणा शक्तिर्दृष्टा तात मनोरमा । निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे
व्यास उवाच इति पृष्ठः पिता तेन नारदेन प्रजापतिः । उवाच वचनं तथ्यं स्मितपूर्वं पितामहः
ब्रह्मोवाच निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् । दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम्
निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् । ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः
अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ । विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित्
चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् । तेजः सर्वत्रगं नित्यं नानाभावेषु नारद
तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ । ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते
तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ । एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ
या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता । अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद
अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद । न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना
अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् । कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि
निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा । सगुणं च महाबुद्धे चेतसा संविचारय
पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम । कटु पित्तं विजानाति रसं रूपं न तत्तथा
गुणैः समावृतं चेतः कथं जानाति निर्गुणम् । अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत्
यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः । तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः
नारद उवाच स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् । गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः
सात्त्विको राजसश्चैव तामसश्च तथापरः । विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम
यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो । गुणानां लक्षणान्येव विततानि विभागशः
ब्रह्मोवाच त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ । ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा
सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका । द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव
तेषां कार्याणि वक्ष्यामि शृणु नारद तत्त्वतः । तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः
रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते । शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा
सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् । पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद