महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् । तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि
कारणं पञ्चभूतानां तानि सर्वसमुद्भवे । कर्मेन्द्रियाणि पंचैव पञ्च ज्ञानेन्द्रियाणि च
महाभूतानि पञ्चैव मनः षोडशमेव च । कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः
परमात्मा पुमानाद्यो न कार्यं न च कारणम् । एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे
संक्षेपेण मया प्रोक्तस्तव तत्र समुद्भवः । व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः
स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते । स्मर्तव्याहं सदा देवाः परमात्मा सनातनः
उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् । ब्रह्मोवाच इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः
विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च । महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः
स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् । चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्भुतम्
विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः । न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च
आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पङ्कजसन्निधौ च । महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ
तत्त्वनिरूपणवर्णनम् ब्रह्मोवाच एवंप्रभावा सा देवी मया दृष्टाथ विष्णुना । शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक्
व्यास उवाच इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः । पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः
नारद उवाच पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः । दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह
त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः । तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज
यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः । दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः
परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः । पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते
भवता सगुणा शक्तिर्दृष्टा तात मनोरमा । निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे
व्यास उवाच इति पृष्ठः पिता तेन नारदेन प्रजापतिः । उवाच वचनं तथ्यं स्मितपूर्वं पितामहः
ब्रह्मोवाच निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् । दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम्
निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् । ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः
अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ । विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित्
चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् । तेजः सर्वत्रगं नित्यं नानाभावेषु नारद
तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ । ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते
तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ । एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ
या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता । अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद
अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद । न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना
अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् । कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि
निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा । सगुणं च महाबुद्धे चेतसा संविचारय
पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम । कटु पित्तं विजानाति रसं रूपं न तत्तथा