यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति । शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः
वाराही वैष्णवी गौरी नारसिंही सदाशिवा । एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव
नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा । जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव
मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते । हृदये ते सदा धार्यः सर्वकामार्थसिद्धये
इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता । विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम्
सदा वक्षःस्थले स्थाने भविता नात्र संशयः । क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा
त्वयेयं नावमन्तव्या माननीया च सर्वदा । लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया
जीवनार्थं कृता यज्ञा देवानां सर्वथा मया । अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा
त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः । मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः
ये विभेदं करिष्यन्ति मानवा मूढचेतसः । निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः
यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः । एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः
तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा । अपरो गुणभेदोऽस्ति शृणु विष्णो ब्रवीमि ते
मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने । गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ
लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा । रजोगुणयुतो भूत्वा विहरस्वानया सह
वाग्बीजं कामराजं च मायाबीजं तृतीयकम् । मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः
गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् । न ते मृत्युभयं विष्णो न कालप्रभवं भयम्
यावदेष विहारो मे भविष्यति सुनिश्चयः । संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम्
भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ । स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा
उद्गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता । कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम
विहरस्व यथाकामं चिन्तयन्मां सनातनीम् । ब्रह्मोवाच इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा
निर्गुणा शङ्करं देवमवोचदमृतं वचः । देव्युवाच गृहाण हरगौरीं त्वं महाकालीं मनोहराम्
कैलासं कारयित्वा च विहरस्व यथासुखम् । मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ
विहरासुरनाशार्थं रजोगुणतमोगुणौ । तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः
सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ । सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः
एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् । वस्तुमात्रं तु यद्दृश्यं संसारे त्रिगुणं हि तत्
दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति । निर्गुणः परमात्मासौ न तु दृश्यः कदाचन
सगुणा निर्गुणा चाहं समये शङ्करोत्तमा । सदाहं कारणं शम्भो न च कार्यं कदाचन
सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके । महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा
कार्यकारणरूपेण संसरन्ते त्वहर्निशम्
अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः । अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता