जलं पिबामि सकलं संहरामि विभावसुम् । पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम्
तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव । असतां भावसन्देहः कर्तव्यो न कदाचन
कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा । मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा
अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे । सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः
शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् । अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम्
गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः । ततः सर्वाणि भूतानि रचयस्व यथा पुरा
व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः । स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः
गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् । महासरस्वतीं नाम्ना रजोगुणयुतां वराम्
श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् । वरासनसमारूढां क्रीडार्थं सहचारिणीम्
एषा सहचरी नित्यं भविष्यति वराङ्गना । मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम्
गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै । बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम्
लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा । वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा
कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् । स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम्
माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा । सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा
यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् । करिष्यति पृथिव्यां वै अवतारं तदा हरिः
तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः । दानवानां विनाशं वै करिष्यति जनार्दनः
भवोऽयं ते सहायश्च भविष्यति महाबलः । समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम्
ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः । यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः
मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल
शिवश्च माननीयो वै सर्वथा यत्तमोगुणः । यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः
यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति । शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः
वाराही वैष्णवी गौरी नारसिंही सदाशिवा । एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव
नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा । जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव
मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते । हृदये ते सदा धार्यः सर्वकामार्थसिद्धये
इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता । विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम्
सदा वक्षःस्थले स्थाने भविता नात्र संशयः । क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा
त्वयेयं नावमन्तव्या माननीया च सर्वदा । लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया
जीवनार्थं कृता यज्ञा देवानां सर्वथा मया । अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा
त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः । मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः
ये विभेदं करिष्यन्ति मानवा मूढचेतसः । निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः