दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते
न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः
एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय
निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः
स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः
पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात्
ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ब्रह्मोवाच इति पृष्टा मया देवी विनयावनतेन च । उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा
देव्युवाच सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च । योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात्
आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्तः स तु संसारान्मुच्यते नात्र संशयः
एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् । द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके
यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा । छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः
भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज । दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा
नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसंक्षये । सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः
अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा । श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा
कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा । विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च
वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता । परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः
किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि । सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज
एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे । तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम्
नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् । भवामि शक्तिरूपेण करोमि च पराक्रमम्
गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा । वारूणी चाथ कौबेरी नारसिंही च वासवी
उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् । करोमि सर्वकार्याणि निमित्तं तं विधाय वै
जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे । निशानाथे हिमा कामं प्रभवामि यथा तथा
मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् । जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि
अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः । शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम्
रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल । शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम्
पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः । अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते
तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि । भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम्
तथा हरिस्तथा शंभुस्तथेन्द्रोऽथ विभावसुः । शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा
धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् । अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे
तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः । मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम्