त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् । अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे
श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै । न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण
विचारे परे तत्त्वसंख्याविधाने पदे मोहिता नाम ते संविहाय । न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै
परं तत्त्वविज्ञानमाद्यैर्जनैर्यै- रजे चानुभूतं त्यजन्त्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम
न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् । विनोदार्थमेवं विधिं मां विधाया- दिसर्गे किलेदं करोषीति कामम्
हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये । हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः
न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद । किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि
त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च । हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः
यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम्
अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च । तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः
दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते
न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः
एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय
निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः
स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः
पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात्
ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ब्रह्मोवाच इति पृष्टा मया देवी विनयावनतेन च । उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा
देव्युवाच सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च । योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात्
आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्तः स तु संसारान्मुच्यते नात्र संशयः
एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् । द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके
यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा । छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः
भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज । दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा
नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसंक्षये । सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः
अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा । श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा
कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा । विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च
वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता । परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः
किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि । सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज
एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे । तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम्
नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् । भवामि शक्तिरूपेण करोमि च पराक्रमम्
गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा । वारूणी चाथ कौबेरी नारसिंही च वासवी