प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः । कथय मां मनुमद्य भवार्णवा- ज्जननि तारय तारय तारके
इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा । उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम्
तं गृहीत्वा महादेवः परां मुदमवाप ह । प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः
जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा । बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा
तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् । अवोचं तां महामायां संस्थितोऽहं पदान्तिके
न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् । स्वधाभूता देवी सकलमखहोमेषु विहिता तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने
कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् । धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति
अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते । याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु
अतोऽहञ्च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै । तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धौ
न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् । यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम्
त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् । अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे
श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै । न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण
विचारे परे तत्त्वसंख्याविधाने पदे मोहिता नाम ते संविहाय । न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै
परं तत्त्वविज्ञानमाद्यैर्जनैर्यै- रजे चानुभूतं त्यजन्त्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम
न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् । विनोदार्थमेवं विधिं मां विधाया- दिसर्गे किलेदं करोषीति कामम्
हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये । हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः
न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद । किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि
त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च । हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः
यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम्
अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च । तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः
दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते
न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः
एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय
निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः
स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः
पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात्
ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ब्रह्मोवाच इति पृष्टा मया देवी विनयावनतेन च । उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा
देव्युवाच सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च । योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात्
आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्तः स तु संसारान्मुच्यते नात्र संशयः
एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् । द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके