पादपीठं प्रेक्षमाणा नानामणिविभूषितम् । सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः
काश्चिद्रक्ताम्बरास्तत्र सहचर्यः सहस्रशः । काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः
देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः । विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल
जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः । वीणामारुतवाद्यानि वादयन्तो मुदान्विताः
शृणु नारद वक्ष्यामि यद्दृष्टं तत्र चाद्भुतम् । नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे
ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् । अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः
वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः । पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा
विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा । नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च
अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा । नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः
वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः । सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः
मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः । शेषशायी जगन्नाथस्तथा च मधुकैटभौ
ब्रह्मोवाच एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् । विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्कितः
विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः । तां तदा मेनिरे देवीं वयं विश्वस्य मातरम्
ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः । सुधामये शिवे द्वीपे विहारं विविधं तदा
सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् । देव्यः प्रमुदिताकारा नानाभरणमण्डिताः
वयमप्यतिरम्यत्वाद्बभूविम विमोहिताः । प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान्
एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् । तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः
श्रीभगवानुवाच नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः । कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः
सच्चिदानन्दरूपिण्यै संसारारणये नमः । पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः
सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः । अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः
ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य सम्भवलयावपि मातरद्य । शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम्
विस्तार्य सर्वमखिलं सदसद्विकारं सन्दर्शयस्यविकलं पुरुषाय काले । तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नः किल रञ्जनाय
न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि । शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो वम्भण्यते जननि बुद्धिमता जनेन
प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि । अत्स्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वै भवस्य
त्राता वयं जननि ते मधुकैटभाभ्यां लोकाश्च ते सुवितताः खलु दर्शिता वै । नीताः सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम्
नाहं भवो न च विरिंचि विवेद मातः कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् । कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे
अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः । अन्येषु देवि भुवनेपु न सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम्
याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवैतत् । नामापि वक्त्रकुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोः सदैव
भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि । एषाऽऽवयोरविरता किल देवि भूया- द्व्याप्तिः सदैव जननी सुतयोरिवार्थे
त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्तिनितान्तभूमिः । किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात्